Slokas
ॐ
॥ श्रीगुरुभ्यो नमः ॥
श्री शारीरकमीमांसादर्शनम्
[ ब्रह्मसूत्राणि ]
अथ प्रथमोऽध्यायः
अथ प्रथमः पादः
१ जिज्ञासाधिकरणम् । सूत्रम् १।
अथातो ब्रह्मजिज्ञासा ॥१.१.१॥
२ जन्माऽधिकारणम् । सूत्र २।
जन्माद्यस्य यतः ॥१.१.२॥
३ शास्त्रयोनित्वाधिकरणम् । सूत्र ३।
शास्त्रयोनित्वात् ॥१.१.३॥
४ समन्वयाधिकरणम् । सूत्र ४।
तत्तु समन्वयात्॥१.१.४॥
५ ईक्षणाद्यधिकरणम् । सूत्र ५–११।
ईक्षतेर्नाशब्दम् ॥१.१.५॥
गौणश्चेन्नात्मशब्दात् ॥१.१.६॥
तन्निष्ठस्य मोक्षोपदेशात् ॥१.१.७॥
हेयत्वावचनाच्च ॥१.१.८॥
स्वाप्ययात् ॥१.१.९॥
गतिसामान्यात् ॥१.१.१०॥
श्रुतत्वाच्च ॥१.१.११॥
६ आनन्दमयाधिकरणम् । सूत्र १२–१९।
आनन्दमयोऽभ्यासात् ॥१.१.१२॥
विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॥१.१.१३॥
तद्धेतुव्यपदेशाच्च ॥१.१.१४॥
मान्त्रवर्णिकमेव च गीयते ॥१.१.१५॥
नेतरोऽनुपपत्तेः ॥१.१.१६॥
भेदव्यपदेशाच्च ॥१.१.१७॥
कामाच्च नानुमानापेक्षा ॥१.१.१८॥
अस्मिन्नस्य च तद्योगं शास्ति ॥१.१.१९॥
७ अन्तराधिकरणम् । सूत्र २०–२१।
अन्तस्तद्धर्मोपदेशात् ॥१.१.२०॥
भेदव्यपदेशाच्चान्यः ॥१.१.२१॥
८ आकाशाधिकरणम् । सूत्र २२।
आकाशस्तल्लिङ्गात् ॥१.१.२२॥
९ प्राणाधिकरणम् । सूत्र २३।
अत एव प्राणः ॥१.१.२३॥
१० ज्योतिःशरणाधिकरणम् । सूत्र २४–२७।
ज्योतिश्चरणाभिधानात् ॥१.१.२४॥
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम् ॥१.१.२५॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥१.१.२६॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥१.१.२७॥
११ प्रतर्दनाधिकरणम् । सूत्र २८–३१।
प्राणस्तथानुगमात् ॥१.१.२८॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् ॥१.१.२९॥
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥१.१.३०॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासत्रैविद्यादाश्रितत्वादिह तद्योगात् ॥१.१.३१॥
इति वैयासिक्यां शारीरकमीमांसायां प्रथमाध्यायस्य प्रथम: पाद: ॥१॥
अथ द्वितीय पाद:
१ सर्वत्र प्रसिद्धयधिकरणम् । सू० १-८।
सर्वत्र प्रसिद्धोपदेशात् ॥१.२.१॥
विवक्षितगुणोपपत्तेश्च ॥१.२.२॥
अनुपपत्तेस्तु न शारीरः ॥१.२.३॥
कर्मकर्तृव्यपदेशाच्च ॥१.२.४॥
शब्दविशेषात् ॥१.२.५॥
स्मृतेश्च ॥१.२.६॥
अर्भकौस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥१.२.७॥
संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥१.२.८॥
२ अत्राधिकरणम् । सूत्र ९–१०।
अत्ता चराचरग्रहणात् ॥१.२.९॥
प्रकरणाच्च ॥१.२.१०॥
३ गुहाप्रविष्टाधिकरणम् । सूत्र ११–१२।
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥१.२.११॥
विशेषणाच्च ॥१.२.१२॥
४ अन्तराधिकरणम् । सूत्र १३–१७।
अन्तर उपपत्तेः ॥१.२.१३॥
स्थानादिव्यपदेशाच्च ॥१.२.१४॥
सुखविशिष्टाभिधानादेव च ॥१.२.१५॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥१.२.१६॥
अनवस्थितेरसंभवाच्च नेतरः ॥१.२.१७॥
५ अन्तर्याम्यधिकरणम् । सूत्र १८–२०।
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥१.२.१८॥
न च स्मार्तं अतद्धर्माभिपालात् ॥१.२.१९॥
शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥१.२.२०॥
६ अन्वयाधिकरणम् । सूत्र २१–२३।
अदृश्यत्वादिगुणको धर्मोक्तेः ॥१.२.२१॥
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥१.२.२२॥
रूपोपन्यासाच्च ॥१.२.२३॥
७ वैश्वानराधिकरणम् । सूत्र २४–३१।
वैश्वानरः साधारणशब्दविशेषात् ॥१.२.२४॥
स्मर्यमाणमनुमानं स्यादिति ॥१.२.२५॥
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेतिचेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥१.२.२६॥
अत एव न देवता भूतं च ॥१.२.२७॥
साक्षादप्यविरोधं जैमिनिः ॥१.२.२८॥
अभिव्यक्तेरित्याश्मरथ्यः ॥१.२.२९॥
अनुस्मृतेर्बादरिः ॥१.२.३०॥
सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति ॥१.२.३१॥
आमनन्ति चैनमस्मिन् ॥१.२.३२॥
इति वैयासिक्यां शारीरकमीमांसायां प्रथमाध्यायस्य द्वितीयः पादः ॥२॥
अथ तृतीय: पाद:
१ द्युभ्वाद्यधिकरणं| सू० १-७।
द्युभ्वाद्यायतनं स्वशब्दात् ॥१.३.१॥
मुक्तोपसृप्यव्यपदेशात् ॥१.३.२॥
नानुमानमतच्छब्दात् ॥१.३.३॥
प्राणभृच्च ॥१.३.४॥
भेदव्यपदेशात् ॥१.३.५॥
प्रकरणात् ॥१.३.६॥
स्थित्यदनाभ्यां च ॥१.३.७॥
२ भूमाधिकरणम् । सू० ८-९।
भूमासम्प्रसादादध्युपदेशात् ॥१.३.८॥
धर्मोपपत्तेश्च ॥१.३.९॥
३ अक्षराधिकरणम् | सू० १०-१२।
अक्षरमम्बरान्तधृतेः ॥१.३.१०॥
सा च प्रशासनात् ॥१.३.११॥
अन्यभावव्यावृत्तेश्च ॥१.३.१२॥
४ ईक्षतिकर्मव्यपदेशाधिकरणम् | सू० १३।
ईक्षतिकर्मव्यपदेशात् सः ॥१.३.१३॥
५ दहराधिकरणम्। सू० १४-२१।
दहर उत्तरेभ्यः ॥१.३.१४॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥१.३.१५॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥१.३.१६॥
प्रसिद्धेश्च ॥१.३.१७॥
इतरपरामर्शात्स इति चेन्नासंभवात् ॥१.३.१८॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१.३.१९॥
अन्यार्थश्च परामर्शः ॥१.३.२०॥
अल्पश्रुतेरिति चेत्तदुक्तम् ॥१.३.२१॥
६ अनुकृत्यधिकरणम् । सू० २२-२३।
अनुकृतेस्तस्य च ॥१.३.२२॥
अपि च स्मर्यते ॥१.३.२३॥
७ प्रमिताधिकरणम् । सू० २४-२५।
शब्दादेव प्रमितः ॥१.३.२४॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥१.३.२५॥
८ देवताधिकरण । सू० २६-३३॥
तदुपर्यपि बादरायणः संभवात् ॥१.३.२६॥
विरोधः कर्मणीति चेदनेकप्रतिपत्तेर्दर्शनात् ॥१.३.२७॥
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥१.३.२८॥
अत एव च नित्यत्वम् ॥१.३.२९॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ॥१.३.३०॥
मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥१.३.३१॥
ज्योतिषि भावाच्च ॥१.३.३२॥
भावं तु बादरायणोऽस्ति हि ॥१.३.३३॥
९ अपशूद्राधिकरणम् । सू० ३४-३७।
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥१.३.३४॥
क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥१.३.३५॥
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥१.३.३६॥
तदभावनिर्धारणे च प्रवृत्तेः ॥१.३.३७॥
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥१.३.३८॥
१० कम्पनाधिकरणम् । सू० ३९।
कम्पनात् ॥१.३.३९॥
११ ज्योतिरधिकरणम् | सू० ४०।
ज्योतिर्दर्शनात् ॥१.३.४०॥
१२ अर्थान्तरत्वादिव्यपदेशाधिकरणम् | सू० ४१॥
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥१.३.४१॥
१३ सुघुप्त्युत्क्रान्त्यधिकरणम् | सू० ४२-४३॥
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥१.३.४२॥
पत्यादिशब्देभ्यः ॥१.३.४३॥
इति वैयासिक्यां शारीरकमीमांसायां प्रथमाध्यायस्य तृतीयः पादः ॥३॥
अथ चतुर्थ: पाद:
१ आनुमानिकाधिकरणम् | सू० १-७।
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॥१.४.१॥
सूक्ष्मं तु तदर्हत्वात् ॥१.४.२॥
तदधीनत्वादर्थवत् ॥१.४.३॥
ज्ञेयत्वावचनाच्च ॥१.४.४॥
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥१.४.५॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥१.४.६॥
महद्वच्च ॥१.४.७॥
२ चमसाधिकरणम् | सू० ८-१०।
चमसवदविशेषात् ॥१.४.८॥
ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥१.४.९॥
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥१.४.१०॥
३ संख्योपसंग्रहाधिकरणम् । सू० ११-१३।
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥१.४.११॥
प्राणादयो वाक्यशेषात् ॥१.४.१२॥
ज्योतिषैकेषामसत्यन्ने ॥१.४.१३॥
४ कारणत्वाधिकरणम् । सू० १४-१५।
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥१.४.१४॥
समाकर्षात् ॥१.४.१५॥
५ बालाक्यधिकरणम् । सू० १६-१७।
जगद्वाचित्वात् ॥१.४.१६॥
जीवमुख्यप्राणलिङ्गान्नेति चेत् तद्व्याख्यातम् ॥१.४.१७॥
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१.४.१८॥
६ वाक्यान्वयाधिकरणम् । सू० १९-२२।
वाक्यान्वयात् ॥१.४.१९॥
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥१.४.२०॥
उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॥१.४.२१॥
अवस्थितेरिति काशकृत्स्नः ॥१.४.२२॥
७ प्रकृत्यधिकरणम् । सू० २३-२७।
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥१.४.२३॥
अभिध्योपदेशाच्च ॥१.४.२४॥
साक्षाच्चोभयाम्नानात् ॥१.४.२५॥
आत्मकृतेः परिणामात् ॥१.४.२६॥
योनिश्च हि गीयते ॥१.४.२७॥
८ सर्वव्याख्यानाधिकरणम् । सू० २८ ।
एतेन सर्वेव्याख्याताव्याख्याताः ॥१.४.२८॥
इति वैयासिक्यां शारीरकमीमांसायां प्रथमाध्यायस्य चतुर्थः पादः ॥४॥
अथ द्वितीयोऽध्याय:
अथ प्रथम: पाद:
१ स्मृत्यधिकरणम् । सू० १-२।
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥२.१.१॥
इतरेषां चानुपलब्धेः ॥२.१.२॥
२ योगप्रत्युक्त्यधिकरणम् । सू० ३।
एतेन योगः प्रत्युक्तः ॥२.१.३॥
३ विलक्षणत्वाधिकरणम् । सू० ४-११।
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥२.१.४॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥२.१.५॥
दृश्यते तु ॥२.१.६॥
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥२.१.७॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥२.१.८॥
न तु दृष्टान्तभावात् ॥२.१.९॥
स्वपक्षदोषाच्च ॥२.१.१०॥
तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥२.१.११॥
४ शिष्टापरिग्रहाधिकरणम् । सू० १२।
एतेन शिष्टापरिग्रहाऽपि व्याख्याताः ॥२.१.१२॥
५ भोक्त्रापत्त्याधिकरणम् । सू॰ १३ ।
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥२.१.१३॥
६ आरम्भणाधिकरणम् । सू॰ १४-२० ।
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥२.१.१४॥
भावे चोपलब्धेः ॥२.१.१५॥
सत्त्वाच्चावरस्य ॥२.१.१६॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥२.१.१७॥
युक्तेः शब्दान्तराच्च ॥२.१.१८॥
पटवच्च ॥२.१.१९॥
यथा च प्राणादिः ॥२.१.२०॥
७ इतरव्यपदेशाधिकरणम् । सू॰ २१-२३ ।
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥२.१.२१॥
अधिकं तु भेदनिर्देशात् ॥२.१.२२॥
अश्मादिवच्च तदनुपपत्तिः ॥२.१.२३॥
८ उपसंहारदर्शनाधिकरणम् । सू॰ २४-२५ ।
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥२.१.२४ ॥
देवादिवदपि लोके ॥२.१.२५॥
९ कृत्स्नप्रसक्त्यधिकरणम् । सू॰ २६-२९ ।
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥२.१.२६॥
श्रुतेस्तु शब्दमूलत्वात् ॥२.१.२७॥
आत्मनि चैवं विचित्राश्व हि ॥२.१.२८॥
स्वपक्षदोषाच्च ॥२.१.२९॥
१० सर्वोपेताधिकरणम् । सू॰ ३०-३१ ।
सर्वोपेता च तदरर्शनात् ॥२.१.३०॥
विकरणत्वान्नेति चेत् तदुक्तम् ॥२.१.३१॥
११ प्रयोजनवत्त्वाधिकरणम् । सू॰ ३२-३३ ।
न प्रयोजनत्त्वात् ॥२.१.३२॥
लोकवत्तु लीलाकैवल्यम् ॥२.१.३३॥
१२ वैषम्यनैर्घृण्याधिकरणम् । सू॰ ३४-३६ ।
वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥२.१.३४॥
न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च ॥२.१.३५॥
उपपद्यते चाप्युपलभ्यते च ॥२.१.३६॥
१३ सर्वधर्मोपपत्त्यधिकरणम् । सू॰ ३७ ।
सर्वधर्मोपपत्तेश्च ॥२.१.३७॥
इति वैयासिक्यां शारीरकमीमांसायां द्वितीयाध्यायस्य प्रथमः पादः ॥१॥
अथ द्वितीयः पादः
१ रचनानुपपत्त्यधिकरणम् । सू॰ १-१० ।
रचनानुपपत्तेश्च नानुमानम् ॥२.२.१॥
प्रवृत्तेश्च ॥२.२.२॥
पयोऽम्बुवच्चेत् तत्रापि ॥२.२.३॥
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥२.२.४॥
अन्यत्राभावाच्च न तृणादिवत् ॥२.२.५॥
अभ्युपगमेऽप्यर्थाभावात् ॥२.२.६॥
पुरुषाश्मवदिति चेत्तथापि ॥२.२.७॥
अङ्गित्वानुपपत्तेश्च ॥२.२.८॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥२.२.९॥
विप्रतिषेधाच्चासमञ्जसम् ॥२.२.१०॥
२ महद्दीर्घाधिकरणम् । सू॰ ११ ।
महद्दीर्घवद्धा ह्रस्वपरिमण्डलाभ्याम् ॥२.२.११॥
३ परमाणुजगदकारणत्वाधिकरणम् । सू॰ १२-१७ ।
उभयथापि न कर्मातस्तदभावः ॥२.२.१२॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥२.२.१३॥
नित्यमेव च भावात् ॥२.२.१४॥
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥२.२.१५॥
उभयथा च दोषात् ॥२.२.१६॥
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥२.२.१७॥
४ समुदायाधिकरणम् । सू॰ १८-२७ ।
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥२.२.१८॥
इतरेतरप्रत्ययत्वादिति चेन्नौत्पत्तिमात्रनिमित्तत्वात् ॥२.२.१९॥
उत्तरोत्पादे च पूर्वनिरोधात् ॥२.२.२०॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥२.२.२१॥
प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः अविच्छेदात् ॥२.२.२२॥
उभयथा च दोषात् ॥२.२.२३॥
आकाशे चाविशेषात् ॥२.२.२४॥
अनुस्मृतेश्च ॥२.२.२५॥
नासतोऽदृष्टत्वात् ॥२.२.२६॥
उदासीनानामपि चैवं सिद्धिः ॥२.२.२७॥
५ नाभावाधिकरणम् । सू॰ २८-३२ ।
नाभाव उपलब्धेः ॥२.२.२८॥
वैधर्म्याच्च न स्वप्नादिवत् ॥२.२.२९॥
न भावोऽनुपलब्धेः ॥२.२.३०॥
क्षणिकत्वाच्च ॥२.२.३१॥
सर्वथानुपपत्तेश्च ॥२.२.३२॥
६ एकस्मिन्नसम्भवाधिकरणम् । सू॰ ३३-३६ ।
नैकस्मिन्नसम्भवात् ॥२.२.३३॥
एवं चात्माकार्त्स्न्यम् ॥२.२.३४॥
न च पर्यायादप्यविरोधः विकारादिभ्यः ॥२.२.३५॥
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः ॥२.२.३६॥
७ पत्यधिकरणम् । सू॰ ३७-४१ ।
पत्युरसामञ्जस्यात् ॥२.२.३७॥
संबन्धानुपपत्तेश्च ॥२.२.३८॥
अधिष्ठानानुपपत्तेश्च ॥२.२.३९॥
करणवच्चेन्न भोगादिभ्यः ॥२.२.४०॥
अन्तवत्त्वमसर्वज्ञता वा ॥२.२.४१॥
८ उत्पत्त्यसम्भवाधिकरणम् । सू॰ ४२-४५ ।
उत्पत्त्यसम्भवात् ॥२.२.४२॥
न च कर्तुः करणम् ॥२.२.४३॥
विज्ञानादिभावे वा तदप्रतिषेधः ॥२.२.४४॥
विप्रतिषेधाच्च ॥२.२.४५॥
इति वैयासिक्यां शारीरकमीमांसायां द्वितीयाध्यायस्य द्वितीयः पादः ॥२॥
अथ तृतीयः पादः
१ वियदधिकरणम् । सू॰ १-७ ।
न वियदश्रुतेः ॥२.३.१॥
अस्ति तु ॥२.३.२॥
गौण्यसम्भवात् ॥२.३.३॥
शब्दाच्च ॥२.३.४॥
स्याच्चैकस्य ब्रह्मशब्दवत् ॥२.३.५॥
प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥२.३.६॥
यावद्विकारं तु विभागो लोकवत् ॥२.३.७॥
२ मातरिश्वाधिकरणम् । सू॰ ८ ।
एतेन मातरिश्वा व्याख्यातः ॥२.३.८॥
३ असम्भवाधिकरणम् । सू॰ ९ ।
असम्भवस्तु सतोऽनुपपत्तेः ॥२.३.९॥
४ तेजोऽधिकरणम् । सू॰ १० ।
तेजोऽतस्तथा ह्याह ॥२.३.१०॥
५ अबधिकरणम् । सू॰ ११ ।
आपः ॥२.३.११॥
६ पृथिव्यधिकाराधिकरणम् । सू॰ १२ ।
पृथिवी अधिकाररूपशब्दान्तरेभ्यः ॥२.३.१२॥
७ तदभिध्यानाधिकरणम् । सू॰ १३ ।
तदभिध्यानादेव तु तल्लिङ्गात् सः ॥२.३.१३॥
८ विपर्ययाधिकरणम् । सू॰ १४ ।
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥२.३.१४॥
९ अन्तराविज्ञानाधिकरणम् । सू॰ १५ ।
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्न अविशेषात् ॥२.३.१५॥
१० चराचरव्यपाश्रयाधिकरणम् । सू॰ १६ ।
चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तः तद्भावभावित्वात् ॥२.३.१६॥
११ आत्माधिकरणम् । सू॰ १७ ।
नात्मा अश्रुतेर्नित्यत्वाच्च ताभ्यः ॥२.३.१७॥
१२ ज्ञाधिकरणम् । सू॰ १८ ।
ज्ञोऽत एव ॥२.३.१८॥
१३ उत्क्रान्तिगत्यधिकरणम् । सू॰ १९-३२ ।
उत्क्रान्तिगत्यागतीनाम् ॥२.३.१९॥
स्वात्मना चोत्तरयोः ॥२.३.२०॥
नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥२.३.२१॥
स्वशब्दोन्मानाभ्यां च ॥२.३.२२॥
अविरोधश्चन्दनवत् ॥२.३.२३॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृद्धि हि ॥२.३.२४॥
गुणाद्वाऽऽलोकवत् ॥२.३.२५॥
व्यतिरेको गन्धवत् ॥२.३.२६॥
तथा च दर्शयति ॥२.३.२७॥
पृथगुपदेशात् ॥२.३.२८॥
तद्गुणसारत्वात् तु तद्व्यपदेश: प्राज्ञवत् ॥२.३.२९॥
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥२.३.३०॥
पुंस्त्वादिवत् त्वस्य सतोऽभिव्यक्तियोग ॥२.३.३१॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा ॥२.३.३२॥
१४ कर्त्राधिकरणम् । सू॰ ३३-३९ ।
कर्ता शास्त्रार्थवत्त्वात् ॥२.३.३३॥
विहारोपदेशात् ॥२.३.३४॥
उपादानात् ॥२.३.३५॥
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥२.३.३६॥
उपलब्धिवदनियमः ॥२.३.३७॥
शक्तिविपर्ययात् ॥२.३.३८॥
समाध्यभावाच्च ॥२.३.३९॥
१५ तक्षाधिकरणम् । सू॰ ४० ।
यथा च तक्षोभयथा ॥२.३.४०॥
१६ परायत्ताधिकरणम् । सू॰ ४१-४२ ।
परात्तु तच्छ्रुतेः ॥२.३.४१॥
कृतप्रयत्नोपेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥२.३.४२॥
१७ अंशाधिकरणम् । सू॰ ४३-५३ ।
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥२.३.४३॥
मन्त्रवर्णात् ॥२.३.४४॥
अपि च स्मर्यते ॥२.३.४५॥
प्रकाशादिवन्नैवं परः ॥२.३.४६॥
स्मरन्ति च ॥२.३.४७॥
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥२.३.४८॥
असन्ततेश्चाव्यतिकरः ॥२.३.४९॥
आभास एव च ॥२.३.५०॥
अदृष्टानियमात् ॥२.३.५१॥
अभिसन्ध्यादिष्वपि चैवम् ॥२.३.५२॥
प्रदेशादिति चेन्नान्तर्भावात् ॥२.३.५३॥
इति वैयासिक्यां शारीरकमीमांसायां द्वितीयाध्यायस्य तृतीयः पादः ॥३॥
अथ चतुर्थः पादः
१ प्राणोत्पत्त्यधिकरणम् । सू॰ १-४ ।
तथा प्राणाः ॥२.४.१॥
गौण्यसम्भवात् ॥२.४.२॥
तत्प्राक्श्रुतेश्च ॥२.४.३॥
तत्पूर्वकत्वाद्वाचः ॥२.४.४॥
२ सप्तगत्यधिकरणम् । सू॰ ५-६ ।
सप्त गतेर्विशेषितत्वाच्च ॥२.४.५॥
हस्तादयस्तु स्थितेऽतो नैवम् ॥२.४.६॥
३ प्राणाणुत्वाधिकरणम् । सू॰ ७ ।
अणवश्च ॥२.४.७॥
४ प्राणश्रेष्ठ्याधिकरणम् । सू॰ ८ ।
श्रेष्ठश्च ॥२.४.८॥
५ वायुक्रियाधिकरणम् । सू॰ ९-१२ ।
न वायुक्रिये पृथगुपदेशात् ॥२.४.९॥
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥२.४.१०॥
अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥२.४.११॥
पश्चवृत्तिमनोवद् व्यपदिश्यते ॥२.४.१२॥
६ श्रेष्ठाणुत्वाधिकरणम् । सू॰ १३ ।
अणुश्च ॥२.४.१३॥
७ ज्योतिराद्यधिकरणम् । सू॰ १४-१६ ।
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥२.४.१४॥
प्राणवता शब्दात् ॥२.४.१५॥
तस्य च नित्यत्वात् ॥२.४.१६॥
८ इन्द्रियाधिकरणम् । सू॰ १७-१९ ।
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥२.४.१७॥
भेदश्रुतेः ॥२.४.१८॥
वैलक्षण्याच्च ॥२.४.१९॥
९ संज्ञामूर्तिक्लृप्त्यधिकरणम् । सू॰ २०-२२ ।
संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥२.४.२०॥
मांसादि भौमं यथाशब्दमितरयोश्च ॥२.४.२१॥
वैशेष्यात्तु तद्वादस्तद्वादः ॥२.४.२२॥
इति वैयासिक्यां शारीरकमीमांसायां द्वितीयाध्यायस्य चतुर्थः पादः ॥४॥
अथ तृतीयोऽध्यायः
अथ प्रथमः पादः
१ तदन्तरप्रतिपत्त्यधिकरणम् । सू॰ १-७ ।
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥३.१.१॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥३.१.२॥
प्राणगतेश्च ॥३.१.३॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥३.१.४॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥३.१.५॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥३.१.६॥
भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॥३.१.७॥
२ कृतात्ययाधिकरणम् । सू॰ ८-११ ।
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् यथेतमनेवं च ॥३.१.८॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः ॥३.१.९॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥३.१.१०॥
सुकृतदुष्कृते एवेति तु बादरिः ॥३.१.११॥
३ अनिष्टादिकार्याधिकरणम् । सू॰ १२-२१ ।
अनिष्टादिकारिणामपि च श्रुतम् ॥३.१.१२॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥३.१.१३॥
स्मरन्ति च ॥३.१.१४॥
अपि च सप्त ॥३.१.१५॥
तत्रापि च तद्व्यापारादविरोधः ॥३.१.१६॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥३.१.१७॥
न तृतीये तथोपलब्धेः ॥३.१.१८॥
स्मर्यतेऽपि च लोके ॥३.१.१९॥
दर्शनाच्च ॥३.१.२०॥
तृतीयशब्दावरोधः संशोकजस्य ॥३.१.२१॥
४ साभाव्यापत्त्यधिकरणम् । सू॰ २२ ।
तत्स्वाभाव्यापत्तिरुपपत्तेः ॥३.१.२२॥
५ नातिचिराधिकरणम् । सू॰ २३ ।
नातिचिरेण विशेषात् ॥३.१.२३॥
६ अन्याधिष्ठिताधिकरणम् । सू॰ २४-२७ ।
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥३.१.२४॥
अशुद्धमिति चेन्न शब्दात् ॥३.१.२५॥
रेतस्सिग्योगोऽथ ॥३.१.२६॥
योनेश्शरीरम् ॥३.१.२७॥
इति वैयासिक्यां शारीरकमीमांसायां तृतीयाध्यायस्य प्रथमः पादः ॥१॥
अथ द्वितीयः पादः
१ सन्ध्याधिकरणम् । सू॰ १-६ ।
सन्ध्ये सृष्टिराह हि ॥३.२.१॥
निर्मातारं चैके पुत्रादयश्च ॥३.२.२॥
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥३.२.३॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥३.२.४॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥३.२.५॥
देहयोगाद्वा सोऽपि ॥३.२.६॥
२ तदभावाधिकरणम् । सू॰ ७-८ ।
तदभावो नाडीषु तत् श्रुतेरात्मनि च ॥३.२.७॥
अतः प्रबोधोऽस्मात् ॥३.२.८॥
३ कर्मानुस्मृतिशब्दविध्यधिकरणम् । सू॰ ९ ।
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥३.२.९॥
४ मुग्धेऽर्धसम्पत्त्यधिकरणम् । सू॰ १० ।
मुग्धेर्ऽधसंपत्तिः परिशेषात् ॥३.२.१०॥
५ उभयलिङ्गाधिकरणम् । सू॰ ११-२१ ।
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥३.२.११॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥३.२.१२॥
अपि चैवमेके ॥३.२.१३॥
अरूपवदेव हि तत्प्रधानत्वात् ॥३.२.१४॥
प्रकाशवच्चावैयर्थ्यम् ॥३.२.१५॥
आह च तन्मात्रम् ॥३.२.१६॥
दर्शयति चाथोऽपि स्मर्यते ॥३.२.१७॥
अत एव चोपमा सूर्यकादिवत् ॥३.२.१८॥
अम्बुवदग्रहणात्तु न तथात्वम् ॥३.२.१९॥
वृद्धिह्रासभाक्त्वमन्तर्भावात् उभयसामञ्जस्यादेवम् ॥३.२.२०॥
दर्शनाच्च ॥३.२.२१॥
६ प्रकृत्यैतावत्त्वाधिकरणम् । सू॰ २२-३० ।
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥३.२.२२॥
तदव्यक्तमाह हि ॥३.२.२३॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥३.२.२४॥
प्रकाशवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥३.२.२५॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥३.२.२६॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥३.२.२७॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥३.२.२८॥
पूर्ववद्वा ॥३.२.२९॥
प्रतिषेधाच्च ॥३.२.३०॥
७ पराधिकरणम् । सू॰ ३१-३७ ।
परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥३.२.३१॥
सामान्यात्तु ॥३.२.३२॥
बुद्ध्यर्थः पादवत् ॥३.२.३३॥
स्थानविशेषात्प्रकाशादिवत् ॥३.२.३४॥
उपपत्तेश्च ॥३.२.३५॥
तथाऽन्यप्रतिषेधात् ॥३.२.३६॥
अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॥३.२.३७॥
८ फलाधिकरणम् । सू॰ ३८-४१ ।
फलमत उपपत्तेः ॥३.२.३८॥
श्रुतत्वाच्च ॥३.२.३९॥
धर्मं जैमिनिरत एव ॥३.२.४०॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥३.२.४१॥
इति वैयासिक्यां शारीरकमीमांसायां तृतीयाध्यायस्य द्वितीयः पादः ॥२॥
अथ तृतीयः पादः
१ सर्ववेदान्तप्रत्ययाधिकरणम् । सू॰ १-४ ।
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥३.३.१॥
भेदान्नेति चेदेकस्यामपि ॥३.३.२॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥३.३.३॥
दर्शयति च ॥३.३.४॥
२ उपसंहाराधिकरणम् । सू॰ ५ ।
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥३.३.५॥
३ अन्यथात्वाधिकरणम् । सू॰ ६-८ ।
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥३.३.६॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥३.३.७॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥३.३.८॥
४ व्याप्त्यधिकरणम् । सू॰ ९ ।
व्याप्तेश्च समञ्जसम् ॥३.३.९॥
५ सर्वाभेदाधिकरणम् । सू॰ १० ।
सर्वाभेदादन्यत्रेमे ॥३.३.१०॥
६ आनन्दाद्यधिकरणम् । सू॰ ११-१३ ।
आनन्दादयः प्रधानस्य ॥३.३.११॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥३.३.१२॥
इतरे त्वर्थसामान्यात् ॥३.३.१३॥
७ आध्यानाधिकरणम् । सू॰ १४-१५ ।
आध्यानाय प्रयोजनाभावात् ॥३.३.१४॥
आत्मशब्दाच्च ॥३.३.१५॥
८ आत्मगृहीत्यधिकरणम् । सू॰ १६-१७ ।
आत्मगृहीतिरितरवदुत्तरात् ॥३.३.१६॥
अन्वयादिति चेत्स्यादवधारणात् ॥३.३.१७॥
९ कार्याख्यानाधिकरणम् । सू॰ १८ ।
कार्याख्यानादपूर्वम् ॥३.३.१८॥
१० समानाधिकरणम् । सू॰ १९ ।
समान एवं चाभेदात् ॥३.३.१९॥
११ सम्बन्धाधिकरणम् । सू॰ २०-२२ ।
सम्बन्धादेवमन्यत्रापि ॥३.३.२०॥
न वा विशेषात् ॥३.३.२१॥
दर्शयति च ॥३.३.२२॥
१२ सम्भृत्यधिकरणम् । सू॰ २३ ।
संभृतिद्युव्याप्त्यपि चातः ॥३.३.२३॥
१३ पुरुषविद्याधिकरणम् । सू॰ २४ ।
पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥३.३.२४॥
१४ वेधाद्यधिकरणम् । सू॰ २५ ।
वेधाद्यर्थभेदात् ॥३.३.२५॥
१५ हान्यधिकरणम् । सू॰ २६ ।
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥३.३.२६॥
१६ साम्परायाधिकरणम् । सू॰ २७-२८ ।
साम्पराये तर्त्तव्याभावात्तथाह्मन्ये ॥३.३.२७॥
छन्दत उभयाविरोधात् ॥३.३.२८॥
१७ गतेरर्थवत्त्वाधिकरणम् । सू॰ २९-३० ।
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥३.३.२९॥
उपपन्नस्तल्लक्षणार्थोपलब्धेलॉकवत् ॥३.३.३०॥
१८ अनियमाधिकरणम् । सू॰ ३१ ।
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥३.३.३१॥
१९ यावदधिकाराधिकरणम् । सू॰ ३२ ।
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥३.३.३२॥
२० अक्षरध्यधिकरणम् । सू॰ ३३ ।
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥३.३.३३॥
२१ इयदधिकरणम् । सू॰ ३४ ।
इयदामननात् ॥३.३.३४॥
२२ अन्तरत्वाधिकरणम् । सू॰ ३५-३६ ।
अन्तरा भूतग्रामवत्स्वात्मनः ॥३.३.३५॥
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥३.३.३६॥
२३ व्यतिहाराधिकरणम् । सू॰ ३७ ।
व्यतिहारो विशिंषन्ति हीतरवत् ॥३.३.३७॥
२४ सत्याद्यधिकरणम् । सू॰ ३८ ।
सैव हि सत्यादयः ॥३.३.३८॥
२५ कामाद्यधिकरणम् । सू॰ ३९ ।
कामादीतरत्र तत्र चायतनादिभ्यः ॥३.३.३९॥
२६ आदराधिकरणम् । सू॰ ४०-४१ ।
आदरादलोपः ॥३.३.४०॥
उपस्थितेऽतस्तद्वचनात् ॥३.३.४१॥
२७ तन्निर्धारणाधिकरणम् । सू॰ ४२ ।
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ॥३.३.४२॥
२८ प्रदानाधिकरणम् । सू॰ ४३ ।
प्रदानवदेव तदुक्तम् ॥३.३.४३॥
२९ लिङ्गभूयस्त्वाधिकरणम् । सू॰ ४४-५२ ।
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥३.३.४४॥
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् ॥३.३.४५॥
अतिदेशाच्च ॥३.३.४६॥
विद्यैव तु निर्धारणात् ॥३.३.४७॥
दर्शनाच्च ॥३.३.४८॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥३.३.४९॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥३.३.५०॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥३.३.५१॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥३.३.५२॥
३० ऐकात्म्याधिकरणम् । सू॰ ५३-५४ ।
एक आत्मनः शरीरे भावात् ॥३.३.५३॥
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥३.३.५४॥
३१ अङ्गावबद्धाधिकरणम् । सू॰ ५५-५६ ।
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥३.३.५५॥
मन्त्रादिवद्वाऽविरोधः ॥३.३.५६॥
३२ भूमज्यायस्त्वाधिकरणम् । सू॰ ५७ ।
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥३.३.५७॥
३३ शब्दादिभेदाधिकरणम् । सू॰ ५८ ।
नाना शब्दादिभेदात् ॥३.३.५८॥
३४ विकल्पाधिकरणम् । सू॰ ५९ ।
विकल्पोऽविशिष्टफलत्वात् ॥३.३.५९॥
३५ काम्याधिकरणम् । सू॰ ६० ।
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥३.३.६०॥
३६ यथाश्रयभावाधिकरणम् । सू॰ ६१-६६ ।
अङ्गेषु यथाश्रयभावः ॥३.३.६१॥
शिष्टेश्च ॥३.३.६२॥
समाहारात् ॥३.३.६३॥
गुणसाधारण्यश्रुतेश्च ॥३.३.६४॥
न वा तत्सहभावश्रुतेः ॥३.३.६५॥
दर्शनाच्च ॥३.३.६६॥
इति वैयासिक्यां शारीरकमीमांसायां तृतीयाध्यायस्य तृतीयः पादः ॥३॥
अथ चतुर्थः पादः
१ पुरुषार्थाधिकरणम् । सू॰ १-१७ ।
पुरुषार्थोऽतश्शब्दादिति बादरायण ॥३.४.१॥
शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥३.४.२॥
आचारदर्शनात् ॥३.४.३॥
तच्छ्रुतेः ॥३.४.४॥
समन्वारम्भणात् ॥३.४.५॥
तद्वतो विधानात् ॥३.४.६॥
नियमाच्च ॥३.४.७॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥३.४.८॥
तुल्यं तु दर्शनम् ॥३.४.९॥
असार्वत्रिकी ॥३.४.१०॥
विभागः शतवत् ॥३.४.११॥
अध्ययनमात्रवतः ॥३.४.१२॥
नाविशेषात् ॥३.४.१३॥
स्तुतयेऽनुमतिर्वा ॥३.४.१४॥
कामकारेण चैके ॥३.४.१५॥
उपमर्दं च ॥३.४.१६॥
ऊर्ध्वरेतःसु च शब्दे हि ॥३.४.१७॥
२ परामर्शाधिकरणम् । सू॰ १८-२० ।
परामर्शं जैमिनिरचोदना चापवदति हि ॥३.४.१८॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥३.४.१९॥
विधिर्वा धारणवत् ॥३.४.२०॥
३ स्तुतिमात्राधिकरणम् । सू॰ २१-२२ ।
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥३.४.२१॥
भावशब्दाच्च ॥३.४.२२॥
४ पारिप्लवाधिकरणम् । सू॰ २३-२४ ।
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥३.४.२३॥
तथा चैकवाक्यतोपबन्धात् ॥३.४.२४॥
५ अग्नीन्धनाद्यधिकरणम् । सू॰ २५ ।
अत एव चाग्नीन्धनाद्यनपेक्षा ॥३.४.२५॥
६ सर्वापेक्षाधिकरणम् । सू॰ २६-२७ ।
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥३.४.२६॥
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥३.४.२७॥
७ सर्वान्नानुमत्यधिकरणम् । सू॰ २८-३१ ।
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥३.४.२८॥
अबाधाच्च ॥३.४.२९॥
अपि च स्मर्यते ॥३.४.३०॥
शब्दश्चातोऽकामकारे ॥३.४.३१॥
८ आश्रमकर्माधिकरणम् । सू॰ ३२-३५ ।
विहितत्वाच्चाश्रमकर्मापि ॥३.४.३२॥
सहकारित्वेन च ॥३.४.३३॥
सर्वथापि त एवोभयलिङ्गात् ॥३.४.३४॥
अनभिभवं च दर्शयति ॥३.४.३५॥
९ विधुराधिकरणम् । सू॰ ३६-३९ ।
अन्तरा चापि तु तद्दृष्टेः ॥३.४.३६॥
अपि च स्मर्यते ॥३.४.३७॥
विशेषानुग्रहश्च ॥३.४.३८॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥३.४.३९॥
१० तद्भूताधिकरणम् । सू॰ ४० ।
तद्भूतस्य तु नातभावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥३.४.४०॥
११ आधिकारिकाधिकरणम् । सू॰ ४१-४२ ।
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥३.४.४१॥
उपपूर्वमपि त्वेके भावमश्नवत्तदुक्तम् ॥३.४.४२॥
१२ बहिरधिकरणम् । सू॰ ४३ ।
बहिस्तूभयथापि स्मृतेराचाराच्च ॥३.४.४३॥
१३ स्वाम्यधिकरणम् । सू॰ ४४-४६ ।
स्वामिनः फलश्रुतेरित्यात्रेयः ॥३.४.४४॥
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥३.४.४५॥
श्रुतेश्च ॥३.४.४६॥
१४ सहकार्यन्तरविध्यधिकरणम् । सू॰ ४७-४९ ।
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥३.४.४७॥
कृत्स्नभावात्तु गृहिणोपसंहारः ॥३.४.४८॥
मौनवदितरेषामप्युपदेशात् ॥३.४.४९॥
१५ अनाविष्काराधिकरणम् । सू॰ ५० ।
अनाविष्कुर्वन्नन्वयात् ॥३.४.५०॥
१६ ऐहिकाधिकरणम् । सू॰ ५१ ।
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥३.४.५१॥
१७ मुक्तिफलाधिकरणम् । सू॰ ५२ ।
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥३.४.५२॥
इति वैयासिक्यां शारीरकमीमांसायां तृतीयाध्यायस्य चतुर्थः पादः ॥४॥
अथ चतुर्थोऽध्यायः
अथ प्रथमः पादः
१ आवृत्त्यधिकरणम् । सू॰ १-२ ।
आवृत्तिरसकृदुपदेशात् ॥४.१.१॥
लिङ्गाच्च ॥४.१.२॥
२ आत्मत्वोपासनाधिकरणम् । सू॰ ३ ।
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥४.१.३॥
३ प्रतीकाधिकरणम् । सू॰ ४ ।
न प्रतीके न हि सः ॥४.१.४॥
४ ब्रह्मदृष्ट्यधिकरणम् । सू॰ ५ ।
ब्रह्मदृष्टिरुत्कर्षात् ॥४.१.५॥
५ आदित्यादिमत्यधिकरणम् । सू॰ ६ ।
आदित्यदिमतयश्चाङ्ग उपपत्तेः ॥४.१.६॥
६ आसीनाधिकरणम् । सू॰ ७-१० ।
आसीनः सम्भवात् ॥४.१.७॥
ध्यानाच्च ॥४.१.८॥
अचलत्वं चापेक्ष्य ॥४.१.९॥
स्मरन्ति च ॥४.१.१०॥
७ एकाग्रताधिकरणम् । सू॰ ११ ।
यत्रैकाग्रता तत्राविशेषात् ॥४.१.११॥
८ आप्रायणाधिकरणम् । सू॰ १२ ।
आ प्रायणात्तत्रापि हि दृष्टम् ॥४.१.१२॥
९ तदधिगमाधिकरणम् । सू॰ १३ ।
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥४.१.१३॥
१० इतरासंश्लेषाधिकरणम् । सू॰ १४ ।
इतरस्याप्येवमसंश्लेषः पाते तु ॥४.१.१४॥
११ अनारब्धाधिकरणम् । सू॰ १५ ।
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥४.१.१५॥
१२ अग्निहोत्राद्यधिकरणम् । सू॰ १६-१७ ।
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥४.१.१६॥
अतोऽन्याऽपि ह्येकेषामुभयोः ॥४.१.१७॥
१३ विद्याज्ञानसाधनाधिकरणम् । सू॰ १८ ।
यदेव विद्ययेति हि ॥४.१.१८॥
१४ इतरक्षपणाधिकरणम् । सू॰ १९ ।
भोगेनत्वितरे क्षपयित्वा सम्पद्यते ॥४.१.१९॥
इति वैयासिक्यां शारीरकमीमांसायां चतुर्थाध्यायस्य प्रथमः पादः ॥१॥
अथ द्वितीयः पादः
१ वाग्धिकरणम् । सू॰ १-२ ।
वाङ्मनसि दर्शनाच्छब्दाच्च ॥४.२.१॥
अत एव च सर्वाण्यनु ॥४.२.२॥
२ मनोऽधिकरणम् । सू॰ ३ ।
तन्मनः प्राण उत्तरात् ॥४.२.३॥
३ अध्यक्षाधिकरणम् । सू॰ ४-६ ।
सोऽध्यक्षे तदुपगमादिभ्यः ॥४.२.४॥
भूतेषु तच्छ्रुतेः ॥४.२.५॥
नैकस्मिन् दर्शयतो हि ॥४.२.६॥
४ आसृत्युपक्रमाधिकरणम् । सू॰ ७ ।
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥४.२.७॥
५ संसारव्यपदेशाधिकरणम् । सू॰ ८-११ ।
तदापीतेः संसारव्यपदेशात् ॥४.२.८॥
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥४.२.९॥
नोपमर्देनातः ॥४.२.१०॥
अस्यैव चोपपत्तेरेष ऊष्मा ॥४.२.११॥
६ प्रतिषेधाधिकरणम् । सू॰ १२-१४ ।
प्रतिषेधादिति चेन्न शारीरात् ॥४.२.१२॥
स्पष्टो ह्येकेषाम् ॥४.२.१३॥
स्मर्यते च ॥४.२.१४॥
७ वागादिलयाधिकरणम् । सू॰ १५ ।
तानि परे तथा ह्याह ॥४.२.१५॥
८ अविभागाधिकरणम् । सू॰ १६ ।
अविभागो वचनात् ॥४.२.१६॥
९ तदोकोऽधिकरणम् । सू॰ १७ ।
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥४.२.१७॥
१० रश्म्यधिकरणम् । सू॰ १८-१९ ।
रश्म्यनुसारी ॥४.२.१८॥
निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥४.२.१९॥
११ दक्षिणायनाधिकरणम् । सू॰ २०-२१ ।
अतश्चायनेऽपि दक्षिणे ॥४.२.२०॥
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥४.२.२१॥
इति वैयासिक्यां शारीरकमीमांसायां चतुर्थाध्यायस्य द्वितीयः पादः ॥२॥
अथ तृतीयः पादः
१ अर्चिराद्यधिकरणम् । सू॰ १ ।
अर्चिरादिना तत्प्रथितेः ॥४.३.१॥
२ वाय्वधिकरणम् । सू॰ २ ।
वायुमब्दादविशेषविशेषाभ्याम् ॥४.३.२॥
३ तडिदधिकरणम् । सू॰ ३ ।
तडितोऽधि वरुणः सम्बन्धात् ॥४.३.३॥
४ आतिवाहिकाधिकरणम् । सू॰ ४-६ ।
आतिवाहिकास्तल्लिङ्गात् ॥४.३.४॥
उभयव्यामोहात्तत्सिद्धेः ॥४.३.५॥
वैद्युतेनैव तततश्छ्रुतेः ॥४.३.६॥
५ कार्याधिकरणम् । सू॰ ७-१४ ।
कार्यं बादरिरस्य गत्युपपत्तेः ॥४.३.७॥
विशेषितत्वाच्च ॥४.३.८॥
सामीप्यात्तु तद्व्यपदेशः ॥४.३.९॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥४.३.१०॥
स्मृतेश्च ॥४.३.११॥
परं जैमिनिर्मुख्यत्वात् ॥४.३.१२॥
दर्शनाच्च ॥४.३.१३॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥४.३.१४॥
६ अप्रतीकालम्बनाधिकरणम् । सू॰ १५-१६ ।
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥४.३.१५॥
विशेषञ्च दर्शयति ॥४.३.१६॥
इति वैयासिक्यां शारीरकमीमांसायां चतुर्थाध्यायस्य तृतीयः पादः ॥३॥
अथ चतुर्थः पादः
१ सम्पद्याविर्भावाधिकरणम् । सू॰ १-३ ।
सम्पद्याविर्भावः स्वेन शब्दात् ॥४.४.१॥
मुक्तः प्रतिज्ञानात् ॥४.४.२॥
आत्मा प्रकरणात् ॥४.४.३॥
२ अविभागेन दृष्टत्वाधिकरणम् । सू॰ ४ ।
अविभागेन दृष्टत्वात् ॥४.४.४॥
३ ब्राह्माधिकरणम् । सू॰ ५-७ ।
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥४.४.५॥
चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥४.४.६॥
एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥४.४.७॥
४ संकल्पाधिकरणम् । सू॰ ८-९ ।
संकल्पादेव तु तच्छ्रुतेः ॥४.४.८॥
अत एव चानन्याधिपतिः ॥४.४.९॥
५ अभावाधिकरणम् । सू॰ १०-१४ ।
अभावं बादरिराह ह्येवम् ॥४.४.१०॥
भावं जैमिनिर्विकल्पामननात् ॥४.४.११॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥४.४.१२॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥४.४.१३॥
भावे जाग्रद्वत् ॥४.४.१४॥
६ प्रदीपाधिकरणम् । सू॰ १५-१६ ।
प्रदीपवदावेशस्तथा हि दर्शयति ॥४.४.१५॥
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥४.४.१६॥
७ जगद्व्यापाराधिकरणम् । सू॰ १७-२२ ।
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥४.४.१७॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥४.४.१८॥
विकारावर्ति च तथा हि स्थितिमाह ॥४.४.१९॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ॥४.४.२०॥
भोगमात्रसाम्यलिङ्गाच्च ॥४.४.२१॥
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥४.४.२२॥
इति वैयासिक्यां शारीरकमीमांसायां चतुर्थाध्यायस्य चतुर्थः पादः ॥४॥
समाप्तश्च ब्रह्मसूत्रपाठः ॥